|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.115. अध्यायः 115
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति राज्ञां सहायसंपादनस्यावश्यकतादिप्रतिपादनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-115-0x(5654)(69267)
पितामह महाप्राज्ञ संशयो मे महानयम्।
संछेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः॥ 12-115-1(69268)
पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम्।
कथितो वाक्यसंचारस्ततो विज्ञापयामि ते॥ 12-115-2(69269)
यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम्।
अयत्यां च तदात्वे च क्षेमवृद्धिकरं च तत्॥ 12-115-3(69270)
पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत्।
अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे॥ 12-115-4(69271)
अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृत।
समुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः॥ 12-115-5(69272)
यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः।
इन्द्रियाणामनीशत्वादसज्जनबुभूषकः॥ 12-115-6(69273)
तस्य भृत्या विमुखतां यान्ति सर्वे कुलोद्गताः।
न च भृत्यबलैरर्थैः स राजा संप्रयुज्यते॥ 12-115-7(69274)
एतन्मे चिन्तयानस्य राजधर्मान्दिवानिशम्।
बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति॥ 12-115-8(69275)
शासता पुरुषव्याघ्र त्वं नः कुलहिते रतः।
क्षत्ता चैको महाप्राज्ञो यो नः शंसति सर्वदा॥ 12-115-9(69276)
त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम्।
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम्॥ 12-115-10(69277)
कीदृशाः सन्निकर्षस्था भृत्याः सर्वगुणान्विताः।
कीदृशैः किं कुलीनैर्वा सह यात्रा विधीयते॥ 12-115-11(69278)
न ह्येको भृत्यरहितो राजा भवति रक्षिता।
राज्यं चेदं जनः सर्वस्तत्कुलीनः प्रशासति॥ 12-115-12(69279)
भीष्म उवाच। 12-115-13x(5655)
न च प्रशास्तुं राज्यं हि शक्यमेकेन भारत॥ 12-115-13(69280)
असहायवता तात नैवार्थाः केचिदप्युत।
लब्धुं लब्धा ह्यपि सदा रक्षितुं भरतर्षभ॥ 12-115-14(69281)
यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः।
हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते॥ 12-115-15(69282)
मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः।
नृपतेर्मतिमाप्सन्ते सत्पथज्ञानकोविदाः॥ 12-115-16(69283)
अनागतविधातारः कालज्ञानविशारदाः।
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते॥ 12-115-17(69284)
समदुःखसुखा यस्य सहायाः प्रियकारिणः।
अर्थचिन्तापराः सभ्याः स राज्यफलमश्नुते॥ 12-115-18(69285)
यस्य नार्तो जनपदः सन्निकर्षगतः सदा।
अक्षुद्रः सत्पथालम्बी स राजा राज्यभाग्भवेत्॥ 12-115-19(69286)
कोशोऽक्षपटलं यस्य कोशवृद्धिकरैर्नरैः।
आप्तैस्तुष्टैश्च पृष्टैश्च धार्यते स नृपोत्तमः॥ 12-115-20(69287)
कोष्ठागारमसंहार्यैराप्तैः संचयतत्परैः।
पात्रभूतैरलुब्धैश्च पाल्यमानं गुणी भवेत्॥ 12-115-21(69288)
व्यवहारश्च नगरे यस्य धर्मफलोदयः।
दृश्यते शङ्खलिखितः स धर्मफलभाङ् नृपः॥ 12-115-22(69289)
संगृहीतमनुष्यश्च यो राजा राजधर्मवित्।
षङ्भागं परिगृह्णाति स धर्मफलमश्नुते॥ ॥ 12-115-23(69290)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः॥ 115॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-115-2 अयं निन्दारूपः॥ 12-115-3 हिनं अनिन्द्यम्। आयत्यां उत्तरकाले। तदात्वे वर्तमानाकले॥ 12-115-5 मित्रसुहृदौ प्रत्युपकारमपेक्ष्यानपेक्ष्य चोपकर्तारौ तद्वान्। समुपेतः शौर्यादिनेति शेषः॥ 12-115-7 भृत्यबलप्राप्यैरर्थैर्धनादिभिः॥ 12-115-14 लब्धुं लब्धाश्च रक्षितुं शक्या इतिं शेषः॥ 12-115-16 असंहार्याः उत्कोचादिना अभेद्याः॥ 12-115-21 कोष्ठागारं धान्यादिसामग्रीगृहम्। गुणीभवेत् बहुगुणिभावं गच्छेत्॥ 12-115-22 व्यवहारः अर्थिप्रत्यर्थिनोर्विवादे निर्णयः। शङ्खलिखित इति। यथा फलमात्रस्तेने शङ्खेन लिखितस्य हस्तच्छेदो राजानं प्रतिषेधयित्वा कारितस्तद्वदित्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|